सामग्री पर जाएँ

ओम प्रकाश कोहली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ओम प्रकाश कोहली
गुजरातराज्यस्य राज्यपालः
Assumed office
15 जुलाई 2014
Preceded by मार्गरेट अल्वा (सद्यः राजस्थानराज्यस्य राज्यपालः)

ओम प्रकाश कोहली भारतीयलोकतन्त्रस्य प्रतिनिधिः । सः राज्यसभायाः पूर्वसदस्यः आसीत् । गुजरातराज्यस्य राज्यपालत्वेन १५/७/२०१४ तमे वर्षे सः नियुक्तः । सः भारतीयजनतापक्षस्य सदस्यः अपि आसीत् । सः १९९४ तः २००० पर्यन्तं राज्यसभायाः सदस्यः आसीत् । तेन देहलीविश्वविद्यालयस्य शिक्षकसङ्घस्य (डूटा), अखिलभारतीयविद्यार्थीपरिषदः अपि अध्यक्षपदं विभूषितम् । तथा च देहल्याः हंसराज-महाविद्यालये, देशबन्धु-महाविद्यालये च सः व्याख्यातृत्वेन ३७ वर्षाणि सेवाम् अयच्छत् ।

१९९९-२००० मध्ये सः भाजपा-दलस्य देहली-विभागस्य अध्यक्षत्वेन कार्यम् अकरोत् । आपातकालस्य काले सः कारागारे प्रेषितः सर्वकारेण [१][२]

देहलीविश्वविद्यालयात् हिन्दीविषयं स्वीकृत्य सः स्नातकोत्तरपदवीं प्राप्तत् । कोहली शिक्षाविद्, राजनेता, लेखकश्च अस्ति । सः 'राष्ट्रीय सुरक्षा के मोर्चे पर', 'शिक्षा नीति', 'भक्तिकाल के संतो की सामाजिक चेतना' इत्यादीनि पुस्तकानि अलिखत् [३]

सन्दर्भ[सम्पादयतु]

"https://sa.chped.com/w/index.php?title=ओम_प्रकाश_कोहली&oldid=437226" इत्यस्माद् प्रतिप्राप्तम्