सामग्री पर जाएँ

य्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उच्चारणम्
उच्चारणम्

अस्य उच्चारणस्थानंतालु अस्ति । एषः अवर्गीयव्यञ्जनस्य प्रथमः वर्णः । व्यञ्जनेषु षड्विंशः वर्णः अस्ति । यरलवा अन्तस्थाः अयं अल्पप्राणवर्णः ।इचुयशानां तालु - वर्गाणां प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः-सि० कौ०

नानार्थाः[सम्पादयतु]

"यशो यः कथितः प्राज्ञेर्यो वायुरितिशब्दितः। याने यातरि यस्त्यागे कथितः शब्दवेदिभिः॥ एकाक्षरकोशः

  1. यशः
  2. वायुः ,
  3. याति वाति -या (प्रापणे) "ड"
  4. त्यागः
  5. रथः
  6. दानी

"यस्त्यागे निलये वायौ यमे दातरि यातरि " नानार्थरत्नमाला

  1. यमः
  2. गृहम्
  3. आदौ लघुयुक्तः वर्णत्रयस्य गणः - यगणः आदिमध्यावस्सानेषु यरता यान्ति लाघवम् ।भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् " वृ० र०
  4. संयमः

"या स्त्रियां यानमञ्जर्योः, शोभालक्ष्मीश्च निर्मितौ" नान्नार्थरत्नमाला

  1. वाहनम्, वृषभवाहनम्
  2. पुष्पगुच्छम्
  3. कान्तिः
  4. लक्ष्मीः
  5. निर्माणम्
"https://sa.chped.com/w/index.php?title=य्&oldid=367889" इत्यस्माद् प्रतिप्राप्तम्