3.43 बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशवरणक्षयः
पठन सेटिंग्स
सूत्रसारः[सम्पादयतु]
व्यासभाष्यम्[सम्पादयतु]
शरीराद्बहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति, सा कल्पितेत्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः, सा खल्वकल्पिता । तत्र कल्पितया साधयत्यकल्पितां महाविदेहामिति, यया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥४३॥
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
विकिस्रोतसि 3.43 बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशवरणक्षयः-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine